ऋषिः - भृगुः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - क्षत्रभृदग्नि सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम्। अपा॑नुदो॒ जन॑ममित्रा॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥

स्वर सहित पद पाठ

इन्द्र॑ । क्ष॒त्रम् । अ॒भ‍ि । वा॒मम् । ओज॑ः । अजा॑यथाः । वृ॒ष॒भ॒ः । च॒र्ष॒णी॒नाम् । अप॑ । अ॒नु॒द॒ः । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्य॑ः । अ॒कृ॒णो॒ः । ऊं॒ इति॑ । लो॒कम् ॥८९.२॥


स्वर रहित मन्त्र

इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम्। अपानुदो जनममित्रायन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥


स्वर रहित पद पाठ

इन्द्र । क्षत्रम् । अभ‍ि । वामम् । ओजः । अजायथाः । वृषभः । चर्षणीनाम् । अप । अनुदः । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्यः । अकृणोः । ऊं इति । लोकम् ॥८९.२॥