ऋषिः - अथर्वा
देवता - सावित्री, सूर्यः, चन्द्रमाः
छन्दः - त्रिष्टुप्
स्वरः - सूर्य-चन्द्र सूक्त
यम् । दे॒वाः । अं॒शुम् । आ॒ऽप्या॒यय॑न्ति । यम् । अक्षि॑तम् । अक्षि॑ताः । भ॒क्षय॑न्ति । तेन॑ । अ॒स्मान् । इन्द्र॑ः । वरु॑णः । बृह॒स्पति॑ः । आ । प्या॒य॒य॒न्तु॒ । भुव॑नस्य । गो॒पाः ॥८६.६॥
यम् । देवाः । अंशुम् । आऽप्याययन्ति । यम् । अक्षितम् । अक्षिताः । भक्षयन्ति । तेन । अस्मान् । इन्द्रः । वरुणः । बृहस्पतिः । आ । प्याययन्तु । भुवनस्य । गोपाः ॥८६.६॥