ऋषिः - उपरिबभ्रवः
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
स्वरः - उपरिबभ्रव सूक्त
भ॒द्रात् । अधि॑ । श्रेय॑ः । प्र । इ॒हि॒ । बृह॒स्पति॑ः । पु॒र॒ःऽए॒ता । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒मम् । अ॒स्याः । वरे॑ । आ । पृ॒थि॒व्याः । आ॒रेऽश॑त्रुम् । कृ॒णु॒हि॒ । सर्व॑ऽवीरम् ॥९.१॥
भद्रात् । अधि । श्रेयः । प्र । इहि । बृहस्पतिः । पुरःऽएता । ते । अस्तु । अथ । इमम् । अस्याः । वरे । आ । पृथिव्याः । आरेऽशत्रुम् । कृणुहि । सर्वऽवीरम् ॥९.१॥