ऋषिः - अथर्वा
देवता - अमावस्या
छन्दः - जगती
स्वरः - अमावस्य सूक्त
यत् । ते॒ । दे॒वाः । अकृ॑ण्वन् । भा॒ग॒ऽधेय॑म् । अमा॑ऽवास्ये । स॒म्ऽवस॑न्तः । म॒हि॒ऽत्वा । तेन॑ । न॒ः । य॒ज्ञम् । पि॒पृ॒हि॒। वि॒श्व॒ऽवा॒रे॒ । र॒यिम् । न॒ः । धे॒हि॒ । सु॒ऽभ॒गे॒ । सु॒ऽवीर॑म् ॥८४.१॥
यत् । ते । देवाः । अकृण्वन् । भागऽधेयम् । अमाऽवास्ये । सम्ऽवसन्तः । महिऽत्वा । तेन । नः । यज्ञम् । पिपृहि। विश्वऽवारे । रयिम् । नः । धेहि । सुऽभगे । सुऽवीरम् ॥८४.१॥