ऋषिः - अथर्वाङ्गिराः

देवता - जातवेदाः

छन्दः - अनुष्टुप्

स्वरः - गण्डमालाचिकित्सा सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑प॒चितां॒ लोहि॑नीनां कृ॒ष्णा मा॒तेति॑ शुश्रुम। मुने॑र्दे॒वस्य॒ मूले॑न॒ सर्वा॑ विध्यामि॒ ता अ॒हम् ॥

स्वर सहित पद पाठ

अ॒प॒ऽचिता॑म् । लोहि॑नीनाम् । कृ॒ष्णा । मा॒ता । इति॑ । शु॒श्रु॒म॒ । मुने॑ः । दे॒वस्य॑ । मूले॑न । सर्वा॑ः । वि॒ध्या॒मि॒ । ताः । अ॒हम् ॥७८.१॥


स्वर रहित मन्त्र

अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम। मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥


स्वर रहित पद पाठ

अपऽचिताम् । लोहिनीनाम् । कृष्णा । माता । इति । शुश्रुम । मुनेः । देवस्य । मूलेन । सर्वाः । विध्यामि । ताः । अहम् ॥७८.१॥