ऋषिः - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - जगती
स्वरः - धर्म सूक्त
उप॑ । द्र॒व॒ । पय॑सा । गो॒ऽधु॒क् । ओ॒षम् । आ । घ॒र्मे । सि॒ञ्च॒ । पय॑ः । उ॒स्रिया॑याः । वि । नाक॑म् । अ॒ख्य॒त् । स॒वि॒ता । वरे॑ण्यः । अ॒नु॒ऽप्र॒यान॑म् । उ॒षस॑ः । वि । रा॒ज॒ति॒ ॥७७.६॥
उप । द्रव । पयसा । गोऽधुक् । ओषम् । आ । घर्मे । सिञ्च । पयः । उस्रियायाः । वि । नाकम् । अख्यत् । सविता । वरेण्यः । अनुऽप्रयानम् । उषसः । वि । राजति ॥७७.६॥