ऋषिः - अथर्वा

देवता - घर्मः, अश्विनौ

छन्दः - जगती

स्वरः - धर्म सूक्त

PreviousNext
स्वर सहित मन्त्र

यदु॒स्रिया॒स्वाहु॑तं घृ॒तं पयो॒ऽयं स वा॑मश्विना भा॒ग आ ग॑तम्। माध्वी॑ धर्तारा विदथस्य सत्पती त॒प्तं घ॒र्मं पि॑बतं रोचने दि॒वः ॥

स्वर सहित पद पाठ

यत् । उ॒स्रिया॑सु । आऽहु॑तम् । घृ॒तम् । पय॑ः । अ॒यम् । सः । वा॒म् । अ॒श्वि॒ना॒ । भा॒गः । आ । ग॒त॒म् । माध्वी॒ इति॑ । ध॒र्ता॒रा॒ । वि॒द॒थ॒स्य॒ । स॒त्प॒ती॒ इति॑ सत्ऽपती । त॒प्तम् । घ॒र्मम् । पि॒ब॒त॒म् । रो॒च॒ने । दि॒वः ॥७७.४॥


स्वर रहित मन्त्र

यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम्। माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने दिवः ॥


स्वर रहित पद पाठ

यत् । उस्रियासु । आऽहुतम् । घृतम् । पयः । अयम् । सः । वाम् । अश्विना । भागः । आ । गतम् । माध्वी इति । धर्तारा । विदथस्य । सत्पती इति सत्ऽपती । तप्तम् । घर्मम् । पिबतम् । रोचने । दिवः ॥७७.४॥