ऋषिः - शन्तातिः

देवता - सुख

छन्दः - पथ्यापङ्क्तिः

स्वरः - सुख सूक्त

PreviousNext
स्वर सहित मन्त्र

शं नो॒ वातो॑ वातु॒ शं न॑स्तपतु॒ सूर्यः॑। अहा॑नि॒ शं भ॑वन्तु नः॒ शं रात्री॒ प्रति॑ धीयतां शमु॒षा नो॒ व्यु॑च्छतु ॥

स्वर सहित पद पाठ

शम् । न॒ः । वात॑ः । वा॒तु॒ । शम् । न॒ः । त॒प॒तु॒ । सूर्य॑ः । अहा॑नि। शम् । भ॒व॒न्तु॒। न॒ः । शम् । रात्री॑ । प्रति॑ । धी॒य॒ता॒म् । शम् । उ॒षाः । न॒ः । वि । उ॒च्छ॒तु॒ ॥७२.१॥


स्वर रहित मन्त्र

शं नो वातो वातु शं नस्तपतु सूर्यः। अहानि शं भवन्तु नः शं रात्री प्रति धीयतां शमुषा नो व्युच्छतु ॥


स्वर रहित पद पाठ

शम् । नः । वातः । वातु । शम् । नः । तपतु । सूर्यः । अहानि। शम् । भवन्तु। नः । शम् । रात्री । प्रति । धीयताम् । शम् । उषाः । नः । वि । उच्छतु ॥७२.१॥