ऋषिः - ब्रह्मा
देवता - आत्मा
छन्दः - पुरःपरोष्णिग्बृहती
स्वरः - आत्मा सूक्त
पुन॑ः । मा॒ । आ । ए॒तु॒ । इ॒न्द्रि॒यम् । पुन॑ः । आ॒त्मा । द्रवि॑णम् । ब्राह्म॑णम् । च॒ । पुन॑ः । अ॒ग्नय॑ः । धिष्ण्या॑ः । य॒था॒ऽस्था॒म । क॒ल्प॒य॒न्ता॒म् । इ॒ह । ए॒व ॥६९.१॥
पुनः । मा । आ । एतु । इन्द्रियम् । पुनः । आत्मा । द्रविणम् । ब्राह्मणम् । च । पुनः । अग्नयः । धिष्ण्याः । यथाऽस्थाम । कल्पयन्ताम् । इह । एव ॥६९.१॥