ऋषिः - शुक्रः

देवता - अपामार्गवीरुत्

छन्दः - अनुष्टुप्

स्वरः - दुरितनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

प्र॑ती॒चीन॑फलो॒ हि त्वमपा॑मार्ग रु॒रोहि॑थ। सर्वा॒न्मच्छ॒पथाँ॒ अधि॒ वरी॑यो यावया इ॒तः ॥

स्वर सहित पद पाठ

प्र॒ती॒चीन॑ऽफलः । हि । त्वम् । अपा॑मार्ग । रु॒रोहि॑थ । सर्वा॑न् । मत् । श॒पथा॑न् । अधि॑ । वरी॑यः । य॒व॒या॒ः । इ॒तः ॥६७.१॥


स्वर रहित मन्त्र

प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ। सर्वान्मच्छपथाँ अधि वरीयो यावया इतः ॥


स्वर रहित पद पाठ

प्रतीचीनऽफलः । हि । त्वम् । अपामार्ग । रुरोहिथ । सर्वान् । मत् । शपथान् । अधि । वरीयः । यवयाः । इतः ॥६७.१॥