ऋषिः - कश्यपः

देवता - अग्निः

छन्दः - जगती

स्वरः - दुरितनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

पृ॑तना॒जितं॒ सह॑मानम॒ग्निमु॒क्थ्यैर्ह॑वामहे पर॒मात्स॒धस्था॑त्। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वोऽति॑ दुरि॒तान्य॒ग्निः ॥

स्वर सहित पद पाठ

पृ॒त॒ना॒ऽजित॑म् । सह॑मानम् । अ॒ग्निम् । उ॒क्थैः । ह॒वा॒म॒हे॒ । प॒र॒मात् । स॒धऽस्था॑त्। सः । न॒ः । प॒र्ष॒त् । अति॑ । दु॒ःऽगानि॑ । विश्वा॑ । क्षाम॑त् । दे॒वः । अति॑ । दु॒ःऽ0इ॒तानि॑ । अ॒ग्निः ॥६५.१॥


स्वर रहित मन्त्र

पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्। स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥


स्वर रहित पद पाठ

पृतनाऽजितम् । सहमानम् । अग्निम् । उक्थैः । हवामहे । परमात् । सधऽस्थात्। सः । नः । पर्षत् । अति । दुःऽगानि । विश्वा । क्षामत् । देवः । अति । दुःऽ0इतानि । अग्निः ॥६५.१॥