ऋषिः - अथर्वा

देवता - अग्निः

छन्दः - अनुष्टुप्

स्वरः - तपः सूक्त

PreviousNext
स्वर सहित मन्त्र

अग्ने॒ तप॑स्तप्यामह॒ उप॑ तप्यामहे॒ तपः॑। श्रु॒तानि॑ शृ॒ण्वन्तो॑ व॒यमायु॑ष्मन्तः सुमे॒धसः॑ ॥

स्वर सहित पद पाठ

अग्ने॑ । तप॑ः । त॒प्या॒म॒हे॒ । उप॑ । त॒प्या॒म॒हे॒ । तप॑ः । श्रु॒तानि॑ । शृ॒ण्वन्त॑ः । व॒यम् । आयु॑ष्मन्तः । सु॒ऽमे॒धस॑ः ॥६३.२॥


स्वर रहित मन्त्र

अग्ने तपस्तप्यामह उप तप्यामहे तपः। श्रुतानि शृण्वन्तो वयमायुष्मन्तः सुमेधसः ॥


स्वर रहित पद पाठ

अग्ने । तपः । तप्यामहे । उप । तप्यामहे । तपः । श्रुतानि । शृण्वन्तः । वयम् । आयुष्मन्तः । सुऽमेधसः ॥६३.२॥