ऋषिः - अथर्वा

देवता - अग्निः

छन्दः - अनुष्टुप्

स्वरः - तपः सूक्त

PreviousNext
स्वर सहित मन्त्र

यद॑ग्ने॒ तप॑सा॒ तप॑ उपत॒प्याम॑हे॒ तपः॑। प्रि॒याः श्रु॒तस्य॑ भूया॒स्मायु॑ष्मन्तः सुमे॒धसः॑ ॥

स्वर सहित पद पाठ

यत् । अ॒ग्ने॒ । तप॑सा । तप॑ः । उ॒प॒ऽत॒प्याम॑हे । तप॑ः । प्रि॒याः । श्रु॒तस्य॑ । भू॒या॒स्म॒ । आयु॑ष्मन्तः । सु॒ऽमे॒धस॑ः ॥६३.१॥


स्वर रहित मन्त्र

यदग्ने तपसा तप उपतप्यामहे तपः। प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥


स्वर रहित पद पाठ

यत् । अग्ने । तपसा । तपः । उपऽतप्यामहे । तपः । प्रियाः । श्रुतस्य । भूयास्म । आयुष्मन्तः । सुऽमेधसः ॥६३.१॥