ऋषिः - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - अनुष्टुप्
स्वरः - रम्यगृह सूक्त
सू॒नृता॑ऽवन्तः । सु॒ऽभगा॑ः । इरा॑ऽवन्तः । ह॒सा॒मु॒दाः । अ॒तृ॒ष्याः । अ॒क्षु॒ध्याः । स्त॒ । गृहा॑ः । मा । अ॒स्मत् । बि॒भी॒त॒न॒ ॥६२.६॥
सूनृताऽवन्तः । सुऽभगाः । इराऽवन्तः । हसामुदाः । अतृष्याः । अक्षुध्याः । स्त । गृहाः । मा । अस्मत् । बिभीतन ॥६२.६॥