ऋषिः - ब्रह्मा

देवता - वास्तोष्पतिः, गृहसमूहः

छन्दः - अनुष्टुप्

स्वरः - रम्यगृह सूक्त

PreviousNext
स्वर सहित मन्त्र

उप॑हूता॒ भूरि॑धनाः॒ सखा॑यः स्वा॒दुसं॑मुदः। अ॑क्षु॒ध्या अ॑तृ॒ष्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ॥

स्वर सहित पद पाठ

उप॑ऽहूताः । भूरि॑ऽधनाः । सखा॑यः । स्वा॒दुऽसं॑मुदः । अ॒क्षु॒ध्याः । अ॒तृ॒ष्याः । स्त॒ । गृहा॑ः । मा । अ॒स्मत् । बि॒भी॒त॒न॒ ॥६२.४॥


स्वर रहित मन्त्र

उपहूता भूरिधनाः सखायः स्वादुसंमुदः। अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥


स्वर रहित पद पाठ

उपऽहूताः । भूरिऽधनाः । सखायः । स्वादुऽसंमुदः । अक्षुध्याः । अतृष्याः । स्त । गृहाः । मा । अस्मत् । बिभीतन ॥६२.४॥