ऋषिः - ब्रह्मा

देवता - वास्तोष्पतिः, गृहसमूहः

छन्दः - परानुष्टुप्त्रिष्टुप्

स्वरः - रम्यगृह सूक्त

PreviousNext
स्वर सहित मन्त्र

ऊर्जं॒ बिभ्र॑द्वसु॒वनिः॑ सुमे॒धा अघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण। गृ॒हानैमि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्वं॒ मा बि॑भीत॒ मत् ॥

स्वर सहित पद पाठ

ऊर्ज॑म् । बिभ्र॑त् । व॒सु॒ऽवनि॑ः । सु॒ऽमे॒धाः । अघो॑रेण । चक्षु॑षा । मि॒त्रिये॑ण । गृ॒हान् । आ । ए॒मि॒ । सु॒ऽमना॑ः । वन्द॑मानः । रम॑ध्वम् । मा । बि॒भी॒त॒ । मत् ॥६२.१॥


स्वर रहित मन्त्र

ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण। गृहानैमि सुमना वन्दमानो रमध्वं मा बिभीत मत् ॥


स्वर रहित पद पाठ

ऊर्जम् । बिभ्रत् । वसुऽवनिः । सुऽमेधाः । अघोरेण । चक्षुषा । मित्रियेण । गृहान् । आ । एमि । सुऽमनाः । वन्दमानः । रमध्वम् । मा । बिभीत । मत् ॥६२.१॥