ऋषिः - वामदेवः

देवता - सरस्वती

छन्दः - जगती

स्वरः - सरस्वती सूक्त

PreviousNext
स्वर सहित मन्त्र

यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद्याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑। यदा॒त्मनि॑ त॒न्वो मे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद्घृ॒तेन॑ ॥

स्वर सहित पद पाठ

यत् । आ॒ऽशसा॑ । वद॑तः । मे॒ । वि॒ऽचु॒क्षु॒भे । यत् । याच॑मानस्य । चर॑तः । जना॑न् । अनु॑ । यत् । आ॒त्म्ननि॑ । त॒न्व᳡ः । मे॒ । विऽरि॑ष्टम् । सर॑स्वती । तत् । आ । पृ॒ण॒त् । घृ॒तेन॑ ॥५९.१॥


स्वर रहित मन्त्र

यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनाँ अनु। यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥


स्वर रहित पद पाठ

यत् । आऽशसा । वदतः । मे । विऽचुक्षुभे । यत् । याचमानस्य । चरतः । जनान् । अनु । यत् । आत्म्ननि । तन्व᳡ः । मे । विऽरिष्टम् । सरस्वती । तत् । आ । पृणत् । घृतेन ॥५९.१॥