ऋषिः - अथर्वा

देवता - ब्रह्मणस्पतिः

छन्दः - विराट्प्रस्तारपङ्क्तिः

स्वरः - विषभेषज्य सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒यं यो व॒क्रो विप॑रु॒र्व्यङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑। तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥

स्वर सहित पद पाठ

अ॒यम् । यः । व॒क्रः । विऽप॑रुः । विऽअ॑ङ्गः । मुखा॑नि । व॒क्रा । वृ॒जि॒ना । कृ॒णोषि॑ । तानि॑ । त्वम् । ब्र॒ह्म॒ण॒ः । प॒ते॒ । इ॒षीका॑म्ऽइव । सम् । न॒म॒ः ॥५८.४॥


स्वर रहित मन्त्र

अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि। तानि त्वं ब्रह्मणस्पत इषीकामिव सं नमः ॥


स्वर रहित पद पाठ

अयम् । यः । वक्रः । विऽपरुः । विऽअङ्गः । मुखानि । वक्रा । वृजिना । कृणोषि । तानि । त्वम् । ब्रह्मणः । पते । इषीकाम्ऽइव । सम् । नमः ॥५८.४॥