ऋषिः - अथर्वा

देवता - वृश्चिकादयः

छन्दः - अनुष्टुप्

स्वरः - विषभेषज्य सूक्त

PreviousNext
स्वर सहित मन्त्र

यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि। अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥

स्वर सहित पद पाठ

यत॑ः । द॒ष्टम् । यत॑ः । धी॒तम् । तत॑ः । ते॒ । निः । ह्व॒या॒म॒सि॒ । अ॒र्भस्य॑ । तृ॒प्र॒ऽदं॒शिन॑ः । म॒शक॑स्य । अ॒र॒सम् । वि॒षम् ॥५८.३॥


स्वर रहित मन्त्र

यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि। अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥


स्वर रहित पद पाठ

यतः । दष्टम् । यतः । धीतम् । ततः । ते । निः । ह्वयामसि । अर्भस्य । तृप्रऽदंशिनः । मशकस्य । अरसम् । विषम् ॥५८.३॥