ऋषिः - ब्रह्मा

देवता - आयुः, बृहस्पतिः, अश्विनौ

छन्दः - त्रिष्टुप्

स्वरः - दीर्घायु सूक्त

PreviousNext
स्वर सहित मन्त्र

सं क्रा॑मतं॒ मा ज॑हीतं॒ शरी॑रं प्राणापा॒नौ ते॑ स॒युजा॑वि॒ह स्ता॑म्। श॒तं जी॑व श॒रदो॒ वर्ध॑मानो॒ऽग्निष्टे॑ गो॒पा अ॑धि॒पा वसि॑ष्ठः ॥

स्वर सहित पद पाठ

सम् । क्रा॒म॒त॒म् । मा । ज॒ही॒त॒म् । शरी॑रम् । प्रा॒णा॒पा॒नौ । ते॒ । स॒ऽयुजौ॑ । इ॒ह । स्ता॒म् । श॒तम् । जी॒व॒ । श॒रद॑ः । वर्ध॑मानः । अ॒ग्निः । ते॒ । गो॒पाः । अ॒धि॒ऽपाः । वसि॑ष्ठः ॥५५.२॥


स्वर रहित मन्त्र

सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम्। शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥


स्वर रहित पद पाठ

सम् । क्रामतम् । मा । जहीतम् । शरीरम् । प्राणापानौ । ते । सऽयुजौ । इह । स्ताम् । शतम् । जीव । शरदः । वर्धमानः । अग्निः । ते । गोपाः । अधिऽपाः । वसिष्ठः ॥५५.२॥