ऋषिः - अथर्वा

देवता - आत्मा

छन्दः - त्रिष्टुप्

स्वरः - आत्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स उ॑ वावृधे॒ पुनः॑। स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मासु॒ द्रवि॑ण॒मा द॑धातु ॥

स्वर सहित पद पाठ

य॒ज्ञः । ब॒भू॒व॒ । सः । आ । ब॒भू॒व॒ । सः । प्र । ज॒ज्ञे॒ । सः । ऊं॒ इति॑ । व॒वृ॒धे॒ । पुन॑ः ।सः । दे॒वाना॑म् । अधि॑ऽपतिः । ब॒भू॒व॒ । सः । अ॒स्मासु॑ । द्रवि॑णम् । आ । द॒धा॒तु॒ ॥५.२॥


स्वर रहित मन्त्र

यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः। स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥


स्वर रहित पद पाठ

यज्ञः । बभूव । सः । आ । बभूव । सः । प्र । जज्ञे । सः । ऊं इति । ववृधे । पुनः ।सः । देवानाम् । अधिऽपतिः । बभूव । सः । अस्मासु । द्रविणम् । आ । दधातु ॥५.२॥