ऋषिः - अथर्वा

देवता - देवपत्नी

छन्दः - आर्षी जगती

स्वरः - देवपत्नी सूक्त

PreviousNext
स्वर सहित मन्त्र

दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये। याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सु॒हवाः॒ शर्म॑ यच्छन्तु ॥

स्वर सहित पद पाठ

दे॒वाना॑म् । पत्नी॑ः । उ॒श॒तीः । अ॒व॒न्तु॒ । न॒ः । प्र । अ॒व॒न्तु॒ । न॒ः । तु॒जये॑ । वाज॑ऽसातये । याः । पार्थि॑वासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । न॒ः । दे॒वी॒ः । सु॒ऽहवा॑ः । शर्म॑ । य॒च्छ॒न्तु॒ ॥५१.१॥


स्वर रहित मन्त्र

देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये। याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु ॥


स्वर रहित पद पाठ

देवानाम् । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवन्तु । नः । तुजये । वाजऽसातये । याः । पार्थिवासः । याः । अपाम् । अपि । व्रते । ताः । नः । देवीः । सुऽहवाः । शर्म । यच्छन्तु ॥५१.१॥