ऋषिः - अथर्वा
देवता - राका
छन्दः - जगती
स्वरः - राका सूक्त
याः । ते॒ । रा॒के॒ । सु॒ऽम॒तय॑ः । सु॒ऽपेश॑सः । याभि॑ः । ददा॑सि । दा॒शुषे॑ । वसू॑नि । ताभि॑ः । न॒ः । अ॒द्य । सु॒ऽमना॑ः । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा॥५०.२॥
याः । ते । राके । सुऽमतयः । सुऽपेशसः । याभिः । ददासि । दाशुषे । वसूनि । ताभिः । नः । अद्य । सुऽमनाः । उपऽआगहि । सहस्रऽपोषम् । सुऽभगे । रराणा॥५०.२॥