ऋषिः - अथर्वा

देवता - सिनीवाली

छन्दः - अनुष्टुप्

स्वरः - सिनीवाली सूक्त

PreviousNext
स्वर सहित मन्त्र

या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री। तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥

स्वर सहित पद पाठ

या । सु॒ऽबा॒हुः । सु॒ऽअ॒ङ्गु॒रिः । सु॒ऽसूमा॑ । ब॒हु॒ऽसूव॑री । तस्यै॑ । वि॒श्पत्न्यै॑ । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥४८.२॥


स्वर रहित मन्त्र

या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी। तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥


स्वर रहित पद पाठ

या । सुऽबाहुः । सुऽअङ्गुरिः । सुऽसूमा । बहुऽसूवरी । तस्यै । विश्पत्न्यै । हविः । सिनीवाल्यै । जुहोतन ॥४८.२॥