ऋषिः - प्रस्कण्वः

देवता - वाक्

छन्दः - त्रिष्टुप्

स्वरः - वाक् सूक्त

PreviousNext
स्वर सहित मन्त्र

शि॒वास्त॒ एका॒ अशि॑वास्त॒ एकाः॒ सर्वा॑ बिभर्षि सुमन॒स्यमा॑नः। ति॒स्रो वाचो॒ निहि॑ता अ॒न्तर॒स्मिन्तासा॒मेका॒ वि प॑पा॒तानु॒ घोष॑म् ॥

स्वर सहित पद पाठ

शि॒वाः । ते॒ । एका॑ः । अशि॑वाः । ते॒ । एका॑ः । सर्वा॑ः । बि॒भ॒र्ष‍ि॒ । सु॒ऽम॒न॒स्यमा॑नः । ति॒स्रः। वाच॑ः । निऽहि॑ता । अ॒न्तः । अ॒स्मिन् । तासा॑म् । एका॑ । वि । प॒पा॒त॒ । अनु॑ । घोष॑म् ॥४४.१॥


स्वर रहित मन्त्र

शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः। तिस्रो वाचो निहिता अन्तरस्मिन्तासामेका वि पपातानु घोषम् ॥


स्वर रहित पद पाठ

शिवाः । ते । एकाः । अशिवाः । ते । एकाः । सर्वाः । बिभर्ष‍ि । सुऽमनस्यमानः । तिस्रः। वाचः । निऽहिता । अन्तः । अस्मिन् । तासाम् । एका । वि । पपात । अनु । घोषम् ॥४४.१॥