ऋषिः - प्रस्कण्वः

देवता - श्येनः

छन्दः - जगती

स्वरः - सुपर्ण सूक्त

PreviousNext
स्वर सहित मन्त्र

अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्षा॑ अवसानद॒र्शः। तर॒न्विश्वा॒न्यव॑रा॒ रजां॒सीन्द्रे॑ण॒ सख्या॑ शि॒व आ ज॑गम्यात् ॥

स्वर सहित पद पाठ

अति॑ । धन्वा॑नि । अति॑ । अ॒पः । त॒त॒र्द॒ । श्ये॒नः । नृ॒ऽचक्षा॑ः । अ॒व॒सा॒न॒ऽद॒र्शः । तर॑न् । विश्वा॑नि । अव॑रा । रजां॑सि । इन्द्रे॑ण । सख्या॑ । शि॒वः । आ । ज॒ग॒म्या॒त् ॥४२.१॥


स्वर रहित मन्त्र

अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः। तरन्विश्वान्यवरा रजांसीन्द्रेण सख्या शिव आ जगम्यात् ॥


स्वर रहित पद पाठ

अति । धन्वानि । अति । अपः । ततर्द । श्येनः । नृऽचक्षाः । अवसानऽदर्शः । तरन् । विश्वानि । अवरा । रजांसि । इन्द्रेण । सख्या । शिवः । आ । जगम्यात् ॥४२.१॥