ऋषिः - प्रस्कण्वः
देवता - सरस्वान्
छन्दः - भुरिगुष्णिक्
स्वरः - सरस्वान् सूक्त
यस्य॑ । व्र॒तम् । प॒शव॑ः । यन्ति॑ ।सर्वे॑ । यस्य॑ । व्र॒ते । उ॒प॒ऽतिष्ठ॑न्ते । आप॑ः । यस्य॑ । व्र॒ते । पु॒ष्ट॒ऽपति॑ः । निऽवि॑ष्टः । तम् । सर॑स्वन्तम् । अव॑से । ह॒वा॒म॒हे॒ ॥४१.१॥
यस्य । व्रतम् । पशवः । यन्ति ।सर्वे । यस्य । व्रते । उपऽतिष्ठन्ते । आपः । यस्य । व्रते । पुष्टऽपतिः । निऽविष्टः । तम् । सरस्वन्तम् । अवसे । हवामहे ॥४१.१॥