ऋषिः - अथर्वा

देवता - वायुः

छन्दः - त्रिष्टुप्

स्वरः - विश्वप्राण सूक्त

PreviousNext
स्वर सहित मन्त्र

एक॑या च द॒शभि॑श्च सुहुते॒ द्वाभ्या॑मि॒ष्टये॑ विंश॒त्या च॑। ति॒सृभि॑श्च॒ वह॑से त्रिं॒शता॑ च वि॒युग्भि॑र्वाय इ॒ह ता वि मु॑ञ्च ॥

स्वर सहित पद पाठ

एक॑या । च॒ । द॒शभि॑ः । च॒ । सु॒ऽहु॒ते॒ । द्वाभ्या॑म् । इ॒ष्टये॑ । विं॒श॒त्या । च॒ । ति॒सृऽभि॑ः । च॒ । वह॑से । त्रिं॒शता॑ । च॒ । वि॒युक्ऽभ‍ि॑ः । वा॒यो॒ इति॑ । इ॒ह । ताः । वि । मु॒ञ्च॒ ॥४.१॥


स्वर रहित मन्त्र

एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च। तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥


स्वर रहित पद पाठ

एकया । च । दशभिः । च । सुऽहुते । द्वाभ्याम् । इष्टये । विंशत्या । च । तिसृऽभिः । च । वहसे । त्रिंशता । च । वियुक्ऽभ‍िः । वायो इति । इह । ताः । वि । मुञ्च ॥४.१॥