ऋषिः - भृग्वङ्गिराः

देवता - इन्द्रः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑वच्छ्रे॒ष्ठाभि॑र्मघवन्छूर जिन्व। यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥

स्वर सहित पद पाठ

इन्द्र॑ । ऊ॒तिऽभि॑ः । ब॒हुलाभि॑ः । न॒ः । अ॒द्य । या॒व॒त्ऽश्रे॒ष्ठाभि॑ः । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ । यः । न॒ः । द्वेष्टि॑ । अध॑रः । सः । प॒दी॒ष्ट॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्मः । तम् । ऊं॒ इति॑ । प्रा॒णः । ज॒हा॒तु॒ ॥३२.१॥


स्वर रहित मन्त्र

इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन्छूर जिन्व। यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥


स्वर रहित पद पाठ

इन्द्र । ऊतिऽभिः । बहुलाभिः । नः । अद्य । यावत्ऽश्रेष्ठाभिः । मघऽवन् । शूर । जिन्व । यः । नः । द्वेष्टि । अधरः । सः । पदीष्ट । यम् । ऊं इति । द्विष्मः । तम् । ऊं इति । प्राणः । जहातु ॥३२.१॥