ऋषिः - मेधातिथिः
देवता - विष्णुः
छन्दः - गायत्री
स्वरः - विष्णु सूक्त
दि॒वः । वि॒ष्णो॒ इति॑ । उ॒त । वा॒ । पृ॒थि॒व्याः । म॒हः । वि॒ष्णो॒ इति॑ । उ॒रोः । अ॒न्तरि॑क्षात् । हस्तौ॑ । पृ॒ण॒स्व॒ । ब॒हुऽभि॑ः । व॒स॒व्यै᳡ः । आ॒ऽप्रय॑च्छ । दक्षि॑णात् । आ । उ॒त । स॒व्यात् ॥२७.८॥
दिवः । विष्णो इति । उत । वा । पृथिव्याः । महः । विष्णो इति । उरोः । अन्तरिक्षात् । हस्तौ । पृणस्व । बहुऽभिः । वसव्यै᳡ः । आऽप्रयच्छ । दक्षिणात् । आ । उत । सव्यात् ॥२७.८॥