ऋषिः - मेधातिथिः

देवता - विष्णुः

छन्दः - त्रिपदा विराड्गायत्री

स्वरः - विष्णु सूक्त

PreviousNext
स्वर सहित मन्त्र

प्र तद्विष्णु॑ स्तवते वी॒र्याणि मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः। प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः ॥

स्वर सहित पद पाठ

प्र । तत् । विष्णु॑ः । स्त॒व॒ते॒ । वी॒र्या᳡ण‍ि । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः । प॒रा॒ऽवत॑ः । आ । ज॒ग॒म्या॒त् । पर॑स्याः ॥२७.२॥


स्वर रहित मन्त्र

प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः। परावत आ जगम्यात्परस्याः ॥


स्वर रहित पद पाठ

प्र । तत् । विष्णुः । स्तवते । वीर्या᳡ण‍ि । मृगः । न । भीमः । कुचरः । गिरिऽस्थाः । पराऽवतः । आ । जगम्यात् । परस्याः ॥२७.२॥