ऋषिः - मेधातिथिः
देवता - विष्णुः
छन्दः - त्रिष्टुप्
स्वरः - विष्णु सूक्त
विष्णो॑ः । नु । क॒म् । प्र । वो॒च॒म् । वी॒र्या᳡णि । यः । पार्थि॑वानि । वि॒ऽम॒मे । रजां॑सि । यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्थ॑म् । वि॒ऽच॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒ऽगा॒यः ॥२७.१॥
विष्णोः । नु । कम् । प्र । वोचम् । वीर्या᳡णि । यः । पार्थिवानि । विऽममे । रजांसि । यः । अस्कभायत् । उत्ऽतरम् । सधऽस्थम् । विऽचक्रमाणः । त्रेधा । उरुऽगायः ॥२७.१॥