ऋषिः - ब्रह्मा

देवता - सविता

छन्दः - त्रिष्टुप्

स्वरः - सविता सूक्त

PreviousNext
स्वर सहित मन्त्र

यन्न॒ इन्द्रो॒ अख॑न॒द्यद॒ग्निर्विश्वे॑ दे॒वा म॒रुतो॒ यत्स्व॒र्काः। तद॒स्मभ्यं॑ सवि॒ता स॒त्यध॑र्मा प्र॒जाप॑ति॒रनु॑मति॒र्नि य॑च्छात् ॥

स्वर सहित पद पाठ

यत् । न॒ः । इन्द्र॑ः । अख॑नत् । यत् । अ॒ग्निः । विश्वे॑ । दे॒वाः । म॒रुत॑ः । यत् । सु॒ऽअ॒र्काः । तत् । अ॒स्मभ्य॑म् । स॒वि॒ता । स॒त्यऽध॑र्मा । प्र॒जाऽप॑तिः । अनु॑ऽपतिः । नि । य॒च्छा॒त् ॥२५.१॥


स्वर रहित मन्त्र

यन्न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः। तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यच्छात् ॥


स्वर रहित पद पाठ

यत् । नः । इन्द्रः । अखनत् । यत् । अग्निः । विश्वे । देवाः । मरुतः । यत् । सुऽअर्काः । तत् । अस्मभ्यम् । सविता । सत्यऽधर्मा । प्रजाऽपतिः । अनुऽपतिः । नि । यच्छात् ॥२५.१॥