ऋषिः - ब्रह्मा

देवता - धाता, प्रजापतिः, पुष्टपतिः

छन्दः - जगती

स्वरः - प्रजा सूक्त

PreviousNext
स्वर सहित मन्त्र

प्र॒जाप॑तिर्जनयति प्र॒जा इ॒मा धा॒ता द॑धातु सुमन॒स्यमा॑नः। सं॑जाना॒नाः संम॑नसः॒ सयो॑नयो॒ मयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्दधातु ॥

स्वर सहित पद पाठ

प्र॒जाऽप॑तिः । ज॒न॒य॒ति॒ । प्र॒ऽजाः । इ॒माः । धा॒ताः । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑नाः । स॒म्ऽजा॒ना॒नाः । सम्ऽम॑नसः । सऽयो॑नयः । मयि॑ । पु॒ष्टम् । पु॒ष्ट॒ऽपति॑ः । द॒धा॒तु॒ ॥२०.१॥


स्वर रहित मन्त्र

प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः। संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु ॥


स्वर रहित पद पाठ

प्रजाऽपतिः । जनयति । प्रऽजाः । इमाः । धाताः । दधातु । सुऽमनस्यमानाः । सम्ऽजानानाः । सम्ऽमनसः । सऽयोनयः । मयि । पुष्टम् । पुष्टऽपतिः । दधातु ॥२०.१॥