ऋषिः - भृगुः
देवता - सविता
छन्दः - त्रिष्टुप्
स्वरः - सविता सूक्त
ताम् । स॒वि॒त॒ः । स॒त्यऽस॑वाम् । सु॒ऽचि॒त्राम् । आ । अ॒हम् । वृ॒णे॒ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राम् । याम् । अ॒स्य॒ । कण्व॑ः । अदु॑हत् । प्रऽपी॑नाम् । स॒हस्र॑ऽधाराम् । म॒हि॒षः । भगा॑य ॥१६.१॥
ताम् । सवितः । सत्यऽसवाम् । सुऽचित्राम् । आ । अहम् । वृणे । सुऽमतिम् । विश्वऽवाराम् । याम् । अस्य । कण्वः । अदुहत् । प्रऽपीनाम् । सहस्रऽधाराम् । महिषः । भगाय ॥१६.१॥