ऋषिः - अथर्वा

देवता - सविता

छन्दः - त्रिष्टुप्

स्वरः - सविता सूक्त

PreviousNext
स्वर सहित मन्त्र

सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै। अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ॥

स्वर सहित पद पाठ

सावी॑ः । हि ।दे॒व॒ । प्र॒थ॒माय॑ । पि॒त्रे । व॒र्ष्माण॑म् । अ॒स्मै॒ । व॒रि॒माण॑म् । अ॒स्मै॒ । अथ॑ । अ॒स्मभ्य॑म् । स॒वि॒त॒ः । वार्या॑णि । दि॒वःऽदि॑वः । आ । सु॒व॒ । भूरि॑ । प॒श्वः ॥१५.३॥


स्वर रहित मन्त्र

सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै। अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥


स्वर रहित पद पाठ

सावीः । हि ।देव । प्रथमाय । पित्रे । वर्ष्माणम् । अस्मै । वरिमाणम् । अस्मै । अथ । अस्मभ्यम् । सवितः । वार्याणि । दिवःऽदिवः । आ । सुव । भूरि । पश्वः ॥१५.३॥