ऋषिः - अथर्वा

देवता - सविता

छन्दः - अनुष्टुप्

स्वरः - सविता सूक्त

PreviousNext
स्वर सहित मन्त्र

उ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि। हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पात्स्वः ॥

स्वर सहित पद पाठ

ऊ॒र्ध्वाः । यस्य॑ । अ॒मति॑ः । भाः । अदि॑द्युतत् । सवी॑मनि । हिर॑ण्यऽपाणिः । अ॒मि॒मी॒त॒ । सु॒ऽक्रतु॑ः । कृ॒पात् । स्व᳡ः ॥१५.२॥


स्वर रहित मन्त्र

उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि। हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः ॥


स्वर रहित पद पाठ

ऊर्ध्वाः । यस्य । अमतिः । भाः । अदिद्युतत् । सवीमनि । हिरण्यऽपाणिः । अमिमीत । सुऽक्रतुः । कृपात् । स्व᳡ः ॥१५.२॥