atharvaveda/7/118/1

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोम॑: । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् । उ॒रो: । वरी॑य: । वरु॑ण: । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वा: । म॒द॒न्तु॒ ॥१२३.१॥

ऋषिः - अथर्वाङ्गिराः

देवता - चन्द्रमाः, वरुणः, देवगणः

छन्दः - त्रिष्टुप्

स्वरः - वर्मधारण सूक्त

स्वर सहित मन्त्र

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

स्वर सहित पद पाठ

मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोम॑: । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् । उ॒रो: । वरी॑य: । वरु॑ण: । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वा: । म॒द॒न्तु॒ ॥१२३.१॥


स्वर रहित मन्त्र

मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्। उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥


स्वर रहित पद पाठ

मर्माणि । ते । वर्मणा । छादयामि । सोम: । त्वा । राजा । अमृतेन । अनु । वस्ताम् । उरो: । वरीय: । वरुण: । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवा: । मदन्तु ॥१२३.१॥