ऋषिः - वरुणः
देवता - आपः, वरुणः
छन्दः - भुरिगनुष्टुप्
स्वरः - पापनाशन सूक्त
शुम्भ॑नी॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । अन्ति॑सुम्ने॒ इत्यन्ति॑ऽसुम्ने । महि॑व्रते॒ इति॑ महि॑ऽव्रते । आप॑ः । स॒प्त । सु॒स्रु॒वु॒ः । दे॒वीः । ताः । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥११७.१॥
शुम्भनी इति । द्यावापृथिवी इति । अन्तिसुम्ने इत्यन्तिऽसुम्ने । महिव्रते इति महिऽव्रते । आपः । सप्त । सुस्रुवुः । देवीः । ताः । नः । मुञ्चन्तु । अंहसः ॥११७.१॥