ऋषिः - बादरायणिः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - राष्ट्रभृत सूक्त

PreviousNext
स्वर सहित मन्त्र

घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पां॒सून॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑। य॑थाभा॒गं ह॒व्यदा॑तिं जुषा॒णा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥

स्वर सहित पद पाठ

घृ॒तम् । अ॒प्स॒राभ्य॑ः । व॒ह॒ । त्वम् । अ॒ग्ने॒ । पां॒सून् । अ॒क्षेभ्य॑ः । सिक॑ताः । अ॒पः । च॒ । य॒था॒ऽभा॒गम् । ह॒व्यऽदा॑तिम् । जु॒षा॒णाः । मद॑न्ति । दे॒वाः । उ॒भया॑नि । ह॒व्या ॥११४.२॥


स्वर रहित मन्त्र

घृतमप्सराभ्यो वह त्वमग्ने पांसूनक्षेभ्यः सिकता अपश्च। यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥


स्वर रहित पद पाठ

घृतम् । अप्सराभ्यः । वह । त्वम् । अग्ने । पांसून् । अक्षेभ्यः । सिकताः । अपः । च । यथाऽभागम् । हव्यऽदातिम् । जुषाणाः । मदन्ति । देवाः । उभयानि । हव्या ॥११४.२॥