ऋषिः - भृगुः
देवता - सूर्यः, आपः
छन्दः - अनुष्टुप्
स्वरः - संतरण
अव॑ । दि॒वः । ता॒र॒य॒न्ति॒ । स॒प्त । सूर्य॑स्य । र॒श्मय॑ः । आप॑ः । स॒मु॒द्रिया॑ः । धारा॑ः । ताः । ते॒ । श॒ल्यम् । अ॒सि॒स्र॒स॒न् ॥११२.१॥
अव । दिवः । तारयन्ति । सप्त । सूर्यस्य । रश्मयः । आपः । समुद्रियाः । धाराः । ताः । ते । शल्यम् । असिस्रसन् ॥११२.१॥