ऋषिः - अथर्वा

देवता - जातवेदाः, वरुणः

छन्दः - बृहतीगर्भा त्रिष्टुप्

स्वरः - अमृतत्व सूक्त

PreviousNext
स्वर सहित मन्त्र

यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः। ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ॥

स्वर सहित पद पाठ

यत् । अस्मृ॑ति । च॒कृ॒म । किम् । चि॒त् । अ॒ग्ने॒ । उ॒प॒ऽआ॒रि॒म । चर॑णे । जा॒त॒ऽवे॒द॒ः । तत॑ः । पा॒हि॒ । त्वम् । न॒ः । प्र॒ऽचे॒त॒ः । शु॒भे । सखि॑ऽभ्यः । अ॒मृ॒त॒ऽत्वम् । अ॒स्तु॒ । न॒ः ॥१११.१॥


स्वर रहित मन्त्र

यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः। ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥


स्वर रहित पद पाठ

यत् । अस्मृति । चकृम । किम् । चित् । अग्ने । उपऽआरिम । चरणे । जातऽवेदः । ततः । पाहि । त्वम् । नः । प्रऽचेतः । शुभे । सखिऽभ्यः । अमृतऽत्वम् । अस्तु । नः ॥१११.१॥