ऋषिः - अथर्वा

देवता - मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - दिव्यवचन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑प॒क्राम॒न्पौरु॑षेयाद्वृणा॒नो दैव्यं॒ वचः॑। प्रणी॑तीर॒भ्याव॑र्तस्व॒ विश्वे॑भिः॒ सखि॑भिः स॒ह ॥

स्वर सहित पद पाठ

अ॒प॒ऽक्राम॑न् । पौरु॑षेयात् । वृ॒णा॒नः । दैव्य॑म् । वच॑ः । प्रऽनी॑तीः । अ॒भि॒ऽआव॑र्तस्व । विश्वे॑भ‍िः । सखि॑ऽभिः । स॒ह ॥११०.१॥


स्वर रहित मन्त्र

अपक्रामन्पौरुषेयाद्वृणानो दैव्यं वचः। प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥


स्वर रहित पद पाठ

अपऽक्रामन् । पौरुषेयात् । वृणानः । दैव्यम् । वचः । प्रऽनीतीः । अभिऽआवर्तस्व । विश्वेभ‍िः । सखिऽभिः । सह ॥११०.१॥