ऋषिः - प्रजापतिः

देवता - ब्रहात्मा

छन्दः - त्रिष्टुप्

स्वरः - गौ सूक्त

PreviousNext
स्वर सहित मन्त्र

कः पृश्निं॑ धे॒नुं वरु॑णेन द॒त्तामथ॑र्वणे सु॒दुघां॒ नित्य॑वत्साम्। बृह॒स्पति॑ना स॒ख्यं जुषा॒णो य॑थाव॒शं त॒न्वः कल्पयाति ॥

स्वर सहित पद पाठ

कः । पृश्नि॑म् । धे॒नुम् । वरु॑णेन । द॒त्ताम् । अथ॑र्वणे । सु॒ऽदुघा॑म् ॥ नित्य॑ऽवत्साम् । बृह॒स्पत‍ि॑ना । स॒ख्य᳡म् । जु॒षा॒णः । य॒था॒ऽव॒शम् । त॒न्व᳡ः । क॒ल्प॒या॒ति॒ ॥१०९.१॥


स्वर रहित मन्त्र

कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम्। बृहस्पतिना सख्यं जुषाणो यथावशं तन्वः कल्पयाति ॥


स्वर रहित पद पाठ

कः । पृश्निम् । धेनुम् । वरुणेन । दत्ताम् । अथर्वणे । सुऽदुघाम् ॥ नित्यऽवत्साम् । बृहस्पत‍िना । सख्य᳡म् । जुषाणः । यथाऽवशम् । तन्व᳡ः । कल्पयाति ॥१०९.१॥