ऋषिः - अथर्वा

देवता - आत्मा

छन्दः - विराड्जगती

स्वरः - आत्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः। स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः स इ॒दं विश्व॑मभव॒त्स आभ॑वत् ॥

स्वर सहित पद पाठ

सः । वे॒द॒ । पु॒त्रः । पि॒तर॑म् । सः । मा॒तर॑म् । सः । सू॒नुः । भु॒व॒त् । सः । भु॒व॒त् । पुन॑ःऽमघः । सः । द्याम् । औ॒र्णो॒त् । अ॒न्तरि॑क्षम् । स्व᳡ः । सः । इ॒दम् । विश्व॑म् । अ॒भ॒व॒त् । सः । आ । अ॒भ॒व॒त् ॥१.२॥


स्वर रहित मन्त्र

स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः। स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभवत् ॥


स्वर रहित पद पाठ

सः । वेद । पुत्रः । पितरम् । सः । मातरम् । सः । सूनुः । भुवत् । सः । भुवत् । पुनःऽमघः । सः । द्याम् । और्णोत् । अन्तरिक्षम् । स्व᳡ः । सः । इदम् । विश्वम् । अभवत् । सः । आ । अभवत् ॥१.२॥