ऋषिः - अथर्वा

देवता - इन्द्रः

छन्दः - बृहतीगर्भा प्रस्तारपङ्क्तिः

स्वरः - विजयी राजा

PreviousNext
स्वर सहित मन्त्र

त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥

स्वर सहित पद पाठ

त्वम् । इ॒न्द्र॒ । अ॒धि॒ऽरा॒जः । श्र॒व॒स्युः । त्वम् । भू॒ः । अ॒भिऽभू॑तिः । जना॑नाम् । त्वम् । दैवी॑ः । विश॑ः । इ॒माः । वि । रा॒ज॒ । आयु॑ष्मत् । क्ष॒त्रम् । अ॒जर॑म् । ते॒ । अ॒स्तु॒ ॥९८.२॥


स्वर रहित मन्त्र

त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम्। त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । अधिऽराजः । श्रवस्युः । त्वम् । भूः । अभिऽभूतिः । जनानाम् । त्वम् । दैवीः । विशः । इमाः । वि । राज । आयुष्मत् । क्षत्रम् । अजरम् । ते । अस्तु ॥९८.२॥