atharvaveda/6/97/3

इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्। ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥

इ॒मम् । वी॒रम् । अनु॑ । ह॒र्ष॒ध्व॒म् । उ॒ग्रम् । इन्द्र॑म् । स॒खा॒य॒: । अनु॑ । सम् । र॒भ॒ध्व॒म् । ग्रा॒म॒ऽजित॑म् । गो॒ऽजित॑म् । वज्र॑ऽबाहुम् । जय॑न्तम्। अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा ॥९७.३॥

ऋषिः - अथर्वा

देवता - देवाः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्। ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥

स्वर सहित पद पाठ

इ॒मम् । वी॒रम् । अनु॑ । ह॒र्ष॒ध्व॒म् । उ॒ग्रम् । इन्द्र॑म् । स॒खा॒य॒: । अनु॑ । सम् । र॒भ॒ध्व॒म् । ग्रा॒म॒ऽजित॑म् । गो॒ऽजित॑म् । वज्र॑ऽबाहुम् । जय॑न्तम्। अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा ॥९७.३॥


स्वर रहित मन्त्र

इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम्। ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥


स्वर रहित पद पाठ

इमम् । वीरम् । अनु । हर्षध्वम् । उग्रम् । इन्द्रम् । सखाय: । अनु । सम् । रभध्वम् । ग्रामऽजितम् । गोऽजितम् । वज्रऽबाहुम् । जयन्तम्। अज्म । प्रऽमृणन्तम् । ओजसा ॥९७.३॥