ऋषिः - भृग्वङ्गिरा

देवता - वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - कुष्ठौषधि सूक्त

PreviousNext
स्वर सहित मन्त्र

गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॑ हि॒मव॑तामु॒त। गर्भो॒ विश्व॑स्य भू॒तस्ये॒मं मे॑ अग॒दं कृ॑धि ॥

स्वर सहित पद पाठ

गर्भ॑ः । अ॒सि॒ । ओष॑धीनाम् । गर्भ॑ः । हि॒मऽव॑ताम् । उ॒त । गर्भ॑ः । विश्व॑स्य । भू॒तस्य॑ । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒धि॒ ॥९५.३॥


स्वर रहित मन्त्र

गर्भो अस्योषधीनां गर्भो हिमवतामुत। गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥


स्वर रहित पद पाठ

गर्भः । असि । ओषधीनाम् । गर्भः । हिमऽवताम् । उत । गर्भः । विश्वस्य । भूतस्य । इमम् । मे । अगदम् । कृधि ॥९५.३॥