ऋषिः - भृग्वङ्गिरा

देवता - वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - कुष्ठौषधि सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥

स्वर सहित पद पाठ

अ॒श्व॒त्थः । दे॒व॒ऽसद॑नः । तृ॒तीय॑स्याम् । इ॒तः । दि॒वि । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । दे॒वाः । कुष्ठ॑म् । अ॒व॒न्व॒त॒ ॥९५.१॥


स्वर रहित मन्त्र

अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि। तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥


स्वर रहित पद पाठ

अश्वत्थः । देवऽसदनः । तृतीयस्याम् । इतः । दिवि । तत्र । अमृतस्य । चक्षणम् । देवाः । कुष्ठम् । अवन्वत ॥९५.१॥