ऋषिः - भृग्वङ्गिरा

देवता - यक्षमनाशनम्

छन्दः - अनुष्टुप्

स्वरः - यक्षमनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः। तेना॑ ते त॒न्वो॒ रपो॑ऽपा॒चीन॒मप॑ व्यये ॥

स्वर सहित पद पाठ

इ॒मम् । यव॑म् । अ॒ष्टा॒ऽयो॒गैः । ष॒ट्ऽयो॒गेभि॑ः । अ॒च॒र्कृ॒षु॒ः । तेन॑ । ते॒ । त॒न्व᳡ः । रप॑ः। अ॒पा॒चीन॑म् । अप॑ । व्य॒ये॒ ॥९१.१॥


स्वर रहित मन्त्र

इमं यवमष्टायोगैः षड्योगेभिरचर्कृषुः। तेना ते तन्वो रपोऽपाचीनमप व्यये ॥


स्वर रहित पद पाठ

इमम् । यवम् । अष्टाऽयोगैः । षट्ऽयोगेभिः । अचर्कृषुः । तेन । ते । तन्व᳡ः । रपः। अपाचीनम् । अप । व्यये ॥९१.१॥